पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४९
सौन्दर्यलहरी ।


कलत्रं वैधात्रं कतिकति भजन्ते न कवयः
 श्रियो देव्याः को वा न भवति पति: कैरपि धनैः ।
महादेवं हित्वा तव सति सतीनामचरमे
 कुचाभ्यामासङ्ग्ः कुरवकतरोरप्यसुलभः ॥ ९६ ॥

गिरामाहुर्देवीं द्रुहिणगृहिणीमागमविदो
 हरेः पत्नीं पद्मां हरसहचरीमद्रितनयाम् ।
तुरीया कापि त्वं दुरधिगमनिःसीममहिमा
 महामाया विश्वं भ्रमयसि परब्रह्ममहिषि ॥ ९७ ॥

कदा काले मातः कथय कलितालक्तकरसं
 पिबेयं विद्यार्थी तव चरणनिर्णेजनजलम् ।
प्रकृत्या मूकानामपि च कविताकारणतया
 कदा धत्ते वाणीमुखकमलताम्बूलरसताम् ॥ ९८॥

सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते
 रते: पातिव्रत्यं शिथिलयति रम्येण वपुषा ।
चिरं जीवन्नेव क्षपितपशुपाशव्यतिकरः
 परानन्दाभिख्यं रसयति रसं त्वद्भजनवान् ॥ ९९ ॥