पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३७
सौन्दर्यलहरी ।

अहः सूते सव्यं तव नयनमर्कात्मकतया
 त्रियामां वामं ते सृजति रजनीनायकतया ।
तृतीया ते दृष्टिर्दरदलितहेमाम्बुजरुचिः
 समाधत्ते सन्ध्यां दिवसनिशयोरन्तरचरीम् ॥४८॥

विशाला कल्याणी स्फुटरुचिरयोध्या कुवलयैः
 कृपाधाराधारा किमपि मधुराभोगवतिका ।
अवन्ती दृष्टिस्ते बहुनगरविस्तारविजया
 ध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते ॥४९॥

कवीनां संदर्भस्तबकमकरन्दैकरसिकं
 कटाक्षव्याक्षेपभ्रमरकलभौ कर्णयुगलम् ।
अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वादतरला-
 वसूयासंसर्गादलिकनयनं किंचिदरुणम् ॥५०॥

शिवे शृङ्गारार्द्रा तदितरजने कुत्सनपरा
 सरोषा गङ्गायां गिरिशचरिते विस्मयवती ।
हराहिभ्यो भीता सरसिरुहसौभाग्यजननी
 सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा ॥५१॥