पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३५
सौन्दर्यलहरी ।


तटित्त्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया
 स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम् ।
तव श्यामं मेघं कमपि मणिपूरैकशरणं
 निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम ॥ ४० ॥

तवाधारे मूले सह समयया लास्यपरया
 नवात्मानं मन्ये नवरसमहाताण्डवनटम् ।
उभाभ्यामेताभ्यामुदयविधिमुद्दिश्य दयया
 सनाथाभ्यां जज्ञे जनकजननीमज्जगदिदम् ॥ ४१ ॥

गतैर्माणिक्यत्वं गगनमणिभिः सान्द्रघटितं
 किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः ।
स नीडेयच्छायाच्छुरणशबलं चन्द्रशकलं
 धनु: शौनासीरं किमिति न निबध्नाति धिषणाम् ॥ ४२॥

धुनोतु ध्वान्तं नस्तुलितदलितेन्दीवरवनं
 घनस्निग्धश्लक्ष्णं चिकुरनिकुरुम्बं तव शिवे ।
यदीयं सौरभ्यं सहजमुपलब्धं सुमनसो
 वसन्त्यस्मिन्मन्ये वलमथनवाटीविटपिनाम् ॥ ४३ ॥