पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३४
सौन्दर्यलहरी।



तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं
 परं शंभुं वन्दे परिमिलितपार्श्वं परचिता ।
यमाराध्यन्भक्त्या रविशशिशुचीनामविषये
 निरालोकेऽलोके निवसति हि भालोकभुवने ॥ ३६ ॥

विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं
 शिवं सेवे देवीमपि शिवसमानव्यवसिताम ।
ययोः कान्त्या यान्त्याः शशिकिरणसारूप्यसरणे-
 र्विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥ ३७ ॥

समुन्मीलत्संवित्कमलमकरन्दैकरसिकं
 भजे हंसद्वन्द्वं किमपि महतां मानसचरम् ।
यदालापादष्टादशगुणितविद्यापरिणति-
 र्यदादत्ते दोषाद्गुणमखिलमद्भ्यः पय इव ॥ ३८ ॥

तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं
 तमीडे संवर्तं जननि महतीं तां च समयाम् ।
यदालोके लोकान्दहति महति क्रोधकलिते
 दयार्द्रा या दृष्टिः शिशिरमुपचारं रचयति ॥ ३९ ॥