पुटमेतत् सुपुष्टितम्
१३३
सौन्दर्यलहरी ।
शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरण:
स्मरो हंसः शक्रस्तदनु च परामारहरयः ।
अमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिता
भजन्ते वर्णास्ते तव जननि नामावयवताम्
॥ ३२ ॥
स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनो-
र्निधायैके नित्ये निरवधिमहाभोगरसिकाः ।
भजन्ति त्वां चिन्तामणिगुणनिबद्धाक्षवलया:
शिवाग्नौ जुह्वन्तः सुरभिघृतधाराहुतिशतैः
॥ ३३ ॥
शरीरं त्वं शंभोः शशिमिहिरवक्षोरुहयुगं
तवात्मानं मन्ये भगवति नवात्मानमनघम् ।
अत: शेष: शेषीत्ययमुभयसाधारणतया
स्थित: संबन्धो वां समरसपरानन्दपरयोः
॥ ३४ ॥
मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि
त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम ।
त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा
चिदानन्दाकारं शिवयुवति भावेन बिभृषे
॥ ३५ ॥