पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३०
सौन्दर्यलहरी ।


किरन्तीमङ्गेभ्यः किरणनिकुरुम्बामृतरसं
 हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः ।
स सर्पाणां दर्पं शमयति शकुन्ताधिप इव
 ज्वरप्लुष्टान्दृष्ट्या सुखयति सुधाधारसिरया ॥ २० ॥

तटिल्लेखातन्वीं तपनशशिवैश्वानरमयीं
 निषण्णां षण्णामप्युपरि कमलानां तव कलाम ।
महापद्माटव्यां मृदितमलमायेन मनसा
 महान्तः पश्यन्तो दधति परमाह्लादलहरीम् ॥ २१ ॥

भवानि त्वं दासे मयि वितर दृष्टिं सकरुणा-
 मिति स्तोतुं वाञ्छन्कथयति भवानि त्वमिति यः ।
तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं
 मुकुन्दब्रह्मेन्द्रस्फुटमकुटनीराजितपदाम ॥ २२ ।।

त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा
 शरीरार्धं शंभोरपरमपि शङ्के हृतमभूत् ।
यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनं
 कुचाभ्यामानम्रं कुटिलशशिचूडालमकुटम् ॥ २३ ॥