पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥श्रीः॥

॥ सुब्रह्मण्यभुजंगम् ॥


सदा बालरूपापि विघ्नाद्रिहन्त्री
 महादन्तिवक्त्रापि पञ्चास्यमान्या |
विधीन्द्रादिमृग्या गणेशाभिधा मे
 विधत्तां श्रियं कापि कल्याणमूर्तिः ॥ १ ॥

न जानामि शब्दं न जानामि चार्थं
 न जानामि पद्यं न जानामि गद्यम् ।
चिदेका षडास्या हृदि द्योतते मे
 मुखान्निःसरन्ते गिरश्चापि चित्रम् ॥ २ ॥

मयूराधिरूढं महावाक्यगूढं
 मनोहारिदेहं महच्चित्तगेहम् ।
महीदेवदेवं महावेदभावं
 महादेवबालं भजे लोकपालम् ॥ ३ ॥