पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२४
उमामहेश्वरस्तोत्रम् ।


नमः शिवाभ्यां पशुपालकाभ्यां
 जगत्रयीरक्षणबद्धहृद्भ्याम ।
समस्तदेवासुरपूजिताभ्यां
 नमो नम: शंकरपार्वतीभ्याम् ।। १२ ।।

स्तोत्रं त्रिसंध्यं शिवपार्वतीभ्यां
 भक्त्या पठेद्वादशकं नरो यः ।
स सर्वसौभाग्यफलानि भुङ्क्ते
 शतायुरन्ते शिवलोकमेति ॥ १३ ।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छकरभगवतः कृतौ
उमामहेश्वरस्तोत्रं संपूर्णम् ॥