पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११०
श्रीमृत्युंजयमानसिकपूजास्तोत्रम् ।

साज्यं समस्तामरवर्गहृद्यं
 सुरेश मृत्युंजय वंशदीपम् ॥ २२ ॥

राजान्नं मधुरान्वितं च मृदुलं माणिक्यपात्रे स्थितं
 हिङ्गूजीरकसन्मरीचिमिलितै: शाकैरनेकैः शुभैः ।
शाकं सम्यगपूपसूपसहितं सद्योघृतेनाप्लुतं
 श्रीमृत्युंजय पार्वतीप्रिय विभो सापोशनं भुज्यताम् ॥ २३ ॥

कूश्माण्डवार्ताकपटोलिकानां
 फलानि रम्याणि च कारवल्ल्या।
सुपाकयुक्तानि ससौरभाणि
 श्रीकण्ठ मृत्युंजय भक्षयेश ॥ २४ ॥

शीतलं मधुरं स्वच्छं पावनं वासितं लघु ।
मध्ये स्वीकुरु पानीयं शिव मृत्युंजय प्रभो ॥ २५ ॥

शर्करामिलित स्निग्धं दुग्धान्नं गोघृतान्वितम् ।
कदलीफलसंमिश्रं भुज्यतां मृत्युसंहर ॥ २६ ॥

केवलमतिमाधुर्ये
 दुग्धैः स्निग्धैश्च शर्करामिलितैः ।