पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०९
श्रीमृत्युंजयमानसिकपूजास्तोत्रम् ।।

गलदलकाननपद्मं
 मृत्युंजय भावयामि हृत्पद्ये ।। १८ ।।

मुक्तातपत्रं शशिकोटिशुभ्रं
शुभप्रदं काञ्चनदण्डयुक्तम् ।
माणिक्यसंस्थापितहेमकुम्भं
 सुरेश मृत्युंजय तेऽर्पयामि ।। १९ ।।

मणिमुकुरे निष्पटले
 त्रिजगद्गाढान्धकारसप्ताश्वे ।
कंदर्पकोटिसदृशं
 मृत्युंजय पश्य वदनमात्मीयम् ॥ २०॥

कर्पूरचूर्णं कपिलाज्यपूतं
 दास्यामि कालेयसमन्वितैश्च !
समुद्भवं पावनगन्धधूपितं
 मृत्युंजयाङ्गं परिकल्पयामि ।। २१ ॥

वर्तित्रयोपेतमखण्डदीप्त्या
 तमोहरं बाह्यमथान्तरं च ।