पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०८
श्रीमृत्युंजयमानसिकपूजास्तोत्रम् ।

दिव्यं देवमनोहरं मणिमये पात्रे समारोपितं
 सर्वाङ्गेषु विलेपयामि सततं मृत्युंजय श्रीविभो ॥

अक्षतैर्धवलैर्दिव्यैः सम्यक्तिलसमन्वितैः ।
मृत्युंजय महादेव पूजयामि वृषध्वज ॥ १४ ॥

चम्पकपङ्कजकुरवक-
 कुन्दैः करवीरमल्लिकाकुसुमैः ।
विस्तारय निजमकुटं
 मृत्युंजय पुण्डरीकनयनाप्त ॥ १५ ॥

माणिक्यपादुकाद्वन्द्वे मौनिहृत्पद्ममन्दिरे ।
पादौ सत्पद्मसदृशौ मृत्युंजय निवेशय 11 १६॥

माणिक्यकेयूरकिरीटहारैः
 काञ्चीमणिस्थापितकुण्डलैश्च ।
मन्जीरमुख्याभरर्णैर्मनोज्ञै-
 रङ्गानि मृत्युंजय भूषयामि ॥ १७ ॥

गजवदनस्कन्दधृते-
 नातिस्वच्छेन चामरयुगेन ।