पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/११३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०१
दक्षिणामूर्तिवर्णमालास्तोत्रम् ।


हा हेत्येवं विस्मयमीयुर्मुनिमुख्या
 ज्ञाते यस्मिन्स्वात्मतयानात्मविमोहः ।
प्रत्यग्भूते ब्रह्मणि यातः कथमित्थं
 तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २४ ॥

यैषा रम्यैर्मत्तमयूराभिधवृत्तै-
 रादौ क्लृप्ता यन्मनुवर्णैर्मुनिभङ्गी ।
तामेवैतां दक्षिणवक्त्रः कृपयासा-
 वूरीकुर्याद्देशिकसम्राट परमात्मा ॥ २५ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
श्रीदक्षिणामूर्तिवर्णमालास्तोत्रं संपूर्णम् ॥