पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्रीः॥

दक्षिणामूर्ति-

वर्णमालास्तोत्रम् ॥



ॐमित्येतद्यस्य बुधैर्नाम गृहीतं
 यद्भासेदं भाति समस्तं वियदादि ।
यस्याज्ञातः स्वस्वपदस्था विधिमुख्या-
 स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥१॥

नम्राङ्गाणां भक्तिमतां य: पुरुषार्था-
 न्दत्वा क्षिप्रं हन्ति च तत्सर्वविपत्तीः ।
पादाम्भोजाधस्तनितापस्मृतिमीशं
 तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥२॥

मोहध्वस्त्यै वैणिकवैयासिकिमुख्या:
 संविन्मुद्रापुस्तकवीणाक्षगुणान्यम् ।
हस्ताम्भोजैर्बिभ्रतमाराधितवन्त-
 स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ३ ॥