पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
 


हाहाहूहूमुखसुरगायक-
 गीतापदानपद्य विभो ।
साम्ब सदाशिव शंभो शंकर
 शरणं मे तव चरणयुगम् ।। ४८॥

ळादिर्न हि प्रयोगस्तदन्त-
 मिह मङ्गळं सदास्तु विभो ।
साम्ब सदाशिव शंभो शंकर
 शरणं मे तव चरणयुगम् ।। ४९ ।।

क्षणमिव दिवसान्नेष्यति त्वत्पद-
 सेवाक्षणोत्सुकः शिव भो।
साम्ब सदाशिव शंभो शंकर
 शरणं मे तव चरणयुगम् ॥ ५० ॥


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

सुवर्णमालास्तुतिः संपूर्णा ॥