पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८९
सुवर्णमालास्तुतिः ।


महिमा तव न हि माति श्रुतिषु हि-
 मानीधरात्मजाधव भो।
साम्ब सदाशिव शंभो शंकर
 शरणं मे तव चरणयुगम ॥ ४० ॥

यमनियमादिभिरङ्गैर्यमिनो
 हृदये भजन्ति स त्वं भो।
साम्ब सदाशिव शंभो शंकर
 शरणं मे तव चरणयुगम् ॥ ४१ ॥

रज्जावहिरिव शुक्तौ रजतमि-
 व त्वयि जगन्ति भान्ति विभो।
साम्ब सदाशिव शंभो शंकर
 शरणं मे तव चरणयुगम् ॥ ४२ ।।

लब्ध्वा भवत्प्रसादाच्चक्रं
 विधुरवति लोकमखिलं भो।
साम्ब सदाशिव शंभो शंकर
 शरणं मे तव चरणयुगम् ।। ४३ ।।