पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्री ॥

॥ दक्षिणामूर्तिस्तोत्रम् ॥


उपासकानां यदुपासनीय-
 मुपात्तवासं वटशाखिमूले ।
तद्धाम दाक्षिण्यजुषा स्वमूर्त्या
 जागर्तु चित्ते मम बोधरूपम् ॥ १ ॥

अद्राक्षमक्षीणदयानिधान-
 माचार्यमाद्य वटमूलभागे ।
मौनेन मन्दस्मितभूषितेन
 महर्षिलोकस्य तमो नुदन्तम् ॥ २ ॥

विद्राविताशेषतमोगणेन
 मुद्राविशेषेण मुहुर्मुनीनाम् ।
निरस्य माया दयया विधत्ते
 देवो महांस्तत्वमसीति बोधम् ॥ ३ ॥