पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७७
अन्नपूर्णाष्टकम् ।


देवी सर्वविचित्ररत्नरचिता दाक्षायणी सुन्दरी
 वामा स्वादुपयोधरा प्रियकरी सौभाग्यमाहेश्वरी ।
भक्ताभीष्टकरी सदा शुभकरी काशीपुराधीश्वरी
 भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ८ ॥

चन्द्रार्कानलकोटिकोटिसदृशी चन्द्रांशुबिम्बाधरी
 चन्द्रार्काग्निसमानकुण्डलधरी चन्द्रार्कवर्णेश्वरी ।
मालापुस्तकपाशसाङ्कुशधरी काशीपुराधीश्वरी
 भिक्षां देहि कृपावलम्बनकरी मातान्न पूर्णेश्वरी ॥ ९ ॥

क्षत्रत्राणकरी महाभयहरी माता कृपासागरी
 सर्वानन्दकरी सदा शिवकरी विश्वेश्वरी श्रीधरी ।
दक्षाक्रन्दकरी निरामयकरी काशीपुराधीश्वरी
 भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ १० ॥

अन्नपूर्णे सदापूर्णे
 शङ्करप्राणवल्लभे ।
ज्ञानवैराग्यसिध्यर्थं
 भिक्षां देहि च पार्वति ॥ ११ ॥