पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७४
कनकधारास्तोत्रम् ।


दिग्हस्तिभिः कनककुम्भमुखावसृष्ट
 स्वर्वाहिनीविमलचारुजलाप्लुताङ्गीम् ।
प्रातर्नमामि जगता जननीमशेष
 लोकाधिनाथगृहिणीममृताब्धिपुत्रीम् ॥ १६ ॥

कमले कमलाक्षवल्लभे त्वं
 करुणापूरतरङ्गितैरपाङ्गैः ।
अवलोकय मामकिञ्चनानां
 प्रथमं पात्रमकृत्रिमं दयायाः ॥ १७ ॥

स्तुवन्ति ये स्तुतिभिरमीभिरन्वहं
 त्रयीमयीं त्रिभुवनमातरं रमाम् |
गुणाधिका गुरुतरभाग्यभाजिनो
 भवन्ति ते भुवि बुधभाविताशयाः ॥ १८ ॥


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभग-
वत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ
कनकधारास्तोत्रं सम्पूर्णम् ॥