पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७३
कनकधारास्तोत्रम् ।


नमोऽस्तु नालीकनिभाननायै
 नमोऽस्तु दुग्धोदधिजन्मभूम्यै ।
नमोऽस्तु सोमामृतसोदरायै
 नमोऽस्तु नारायणवल्लभायै ॥ १२ ॥

सपत्कराणि सकलेन्द्रियनन्दनानि
 साम्राज्यदानविभवानि सरोरुहाक्षि ।
त्वद्वन्दनानि दुरिताहरणोद्यतानि
 मामेव मातरनिशं कलयन्तु मान्ये ॥ १३ ॥

यत्कटाक्षसमुपासनाविधिः
 सेवकस्य सकलार्थसम्पदः ।
संतनोति वचनाङ्गमानसै-
 स्त्वां मुरारिहृदयेश्वरीं भजे ॥ १४ ॥

सरसिजनिलये सरोजहस्ते
 धवलतमांशुकगन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे
 त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ १५ ॥