पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७२
कनकधारास्तोत्रम् ।


दद्याद्दयानुपवनो द्रविणाम्बुधारा-
 मस्मिन्न किञ्चन विहंगशिशौ विषण्णे ।
दुष्कर्मधर्ममपनीय चिराय दूरं
 नारायणप्रणयिनीनयनाम्बुवाहः ॥ ८ ॥

इष्टाविशिष्टमतयोऽपि यया दयार्द्र-
 दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते ।
दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां
 पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः ॥ ९ ॥

गीर्देवतेति गरुडध्वजसुन्दरीति
 शाकम्भरीति शशिशेखरवल्लभेति ।
सृष्टिस्थितिप्रलयकेलिषु संस्थितायै
 तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥ १० ॥

श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै
 रत्यै नमोऽस्तु रमणीयगुणार्णवायै ।
शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै
 पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥ ११ ॥