पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६९
मोहमुद्गरः ।

सुखतः क्रियते रामाभोगः
 पश्चाद्धन्त शरीरे रोगः ।
यद्यपि लोके मरणं शरणं
 तदपि न मुश्चति पापाचरणम् ॥ २८ ॥

अर्थमनर्थं भावय नित्यं
 नास्ति ततः सुखलेशः सत्यम् ।
पुत्रादपि धनभाजां भीतिः
 सर्वत्रैषा विहिता रीतिः ॥ २९ ॥

प्राणायामं प्रत्याहारं
 नित्यानित्यविवेकविचारम् ।
जाप्यसमेतसमाधिविधानं
 कुर्ववधानं महदवधानम् ॥ ३० ॥

गुरुचरणाम्बुजनिर्भरभक्तः
 संसारादचिराद्भव मुक्तः ।
सेन्द्रियमानसनियमादेव
 द्रक्ष्यसि निजहृदयस्थं देवम् ॥ ३१ ॥


इति मोहमुद्गरः सपूर्णः ॥