पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६६
मोहमुद्गरः ।


अग्रे वह्निः पृष्ठे भानू
 रात्रौ चुबुकसमर्पितजानुः ।
करतलभिक्षस्तरुतलवास-
 स्तदपि न मुञ्चत्याशापाशः ॥ १६ ॥

कुरुते गङ्गासागरगमनं
 व्रतपरिपालनमथवा दानम् ।
ज्ञानविहीनः सर्वमतेन
 मुक्तिं न भजति जन्मशतेन ॥ १५ ॥

सुरमन्दिरतरुमूलनिवासः
 शय्या भूतलमजिनं वासः ।
सर्वपरिग्रहभोगत्यागः
 कस्य सुखं न करोति विरागः ॥ १८ ॥

योगरतो वा भोगरतो वा
 सङ्गरतो वा सङ्गविहीनः ।
यस्य ब्रह्मणि रमते चित्तं
 नन्दति नन्दति नन्दत्येव ॥ १९ ॥