पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६५
मोहमुद्गरः ।


दिनयामिन्यौ सायं प्रातः
 शिशिरवसन्तौ पुनरायातः ।
कालः क्रीडति गच्छत्यायु-
 स्तदपि न मुञ्चत्याशावायुः ॥ १२ ॥

का ते कान्ताधनगतचिन्ता
 वातुल किं तव नास्ति नियन्ता ।
त्रिजगति सज्जनसङ्गतिरेका
 भवति भवार्णवतरणे नौका ॥ १३ ॥

जटिलो मुण्डी लुञ्छितकेशः
 काषायाम्बरबहुकृतवेषः ।
पश्यन्नपि च न पश्यति मूढो
 ह्युदरनिमित्तं बहुकृतवेषः ॥ १४ ॥

अङ्गं गलितं पलितं मुण्डं
 दशनविहीनं जातं तुण्डम् ।
वृद्धो याति गृहीत्वा दण्डं
 तदपि न मुञ्चत्याशापिण्डम् ॥ १५ ॥

B & IT 5