पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६४
मोहमुद्गरः।


का ते कान्ता कस्ते पुत्रः
 संसारोऽयमतीव विचित्रः ।
कस्य त्वं कः कुत आयात-
 स्तत्त्वं चिन्तय यदिदं भ्रान्तः ॥ ८ ॥

सत्सङ्गत्वे निःसङ्गत्वं
 निःसङ्गत्वे निर्मोहत्वम् ।
निर्मोहत्वे निश्चलतत्वं
 निश्चलतत्वे जीवन्मुक्तिः ॥ ९ ॥

वयसि गते कः कामविकारः
 शुष्के नीरे कः कासारः ।
क्षीणे वित्ते कः परिवारो
 ज्ञाते तत्त्वे कः संसारः ॥ १० ॥

मा कुरु धनजनयौवनगर्वं
 हरति निमेषात्कालः सर्वम् ।
मायामयमिदमखिलं हित्वा
 ब्रह्मपदं त्वं प्रविश विदित्वा ॥ ११ ॥