पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६३
मोहमुद्गरः ।


नलिनीदलगतजलमतितरलं
 तद्वज्जीवितमतिशयचपलम् ।
विद्धि व्याध्यभिमानग्रस्तं
 लोकं शोकहतं च समस्तम् ॥ ४ ॥

यावद्वित्तोपार्जनसक्त-
 स्तावनिजपरिवारो रक्तः ।
पश्चाज्जीवति जर्जरदेहे
 वार्ता कोऽपि न पृच्छति गेहे ॥ ५ ॥

यावत्पवनो निवसति देहे
 तावत्पृच्छति कुशलं गेहे ।
गतवति वायौ देहापाये
 भार्या बिभ्यति तस्मिन्काये ॥ ६ ॥

बालस्तावत्क्रीडासक्त-
 स्तरुणस्तावत्तरुणीसक्तः ।
वृद्धस्तावच्चिन्तासक्तः
 परे ब्रह्मणि कोऽपि न सक्तः ॥ ७ ॥