पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्री ॥

॥ मोहमुद्गरः ॥


भज गोविन्दं भज गोविन्दं
 भज गोविन्दं मूढमते ।
संप्राप्ते संनिहिते काले
 न हि न हि रक्षति डुकृञ्करणे ॥ १ ॥

मूढ जहीहि धनागमतृष्णां
 कुरु सद्बुद्धिं मनसि वितृष्णाम् ।
यल्लभसे निजकर्मोपात्तं
 वित्तं तेन विनोदय चित्तम् ॥ २ ॥

नारीस्तनभरनाभीदेशं
 दृष्ट्वा मा गा मोहावेशम् ।
एतन्मांसवसादिविकारं
 मनसि विचिन्तय वारं वारम् ॥ ३ ॥