पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६१
भगवन्मानसपूजा ।


विजातीयैः पुष्पैरतिसुरभिभिर्बिल्वतुलसी-
 युतैश्चेमं पुष्पाञ्जलिमजित ते मूर्ध्नि निदधे ।
तव प्रादक्षिण्यक्रमणमधविध्वंसि रचितं
 चतुर्वारं विष्णो जनिपथगतेश्चान्तविदुषा ॥ ८ ॥

नमस्कारोऽष्टाङ्गः सकलदुरितध्वंसनपटुः
 कृतं नृत्यं गीतं स्तुतिरपि रमाकान्त त इयम् ।
तव प्रीत्यै भूयादहमपि च दासस्तव विभो
 कृतं छिद्रं पूर्णं कुरु कुरु नमस्तेऽस्तु भगवन् ॥ ९ ॥

सदा सेव्यः कृष्णः सजलघननीलः करतले
 दधानो दध्यन्नं तदनु नवनीतं मुरलिकाम् ।
कदाचित्कान्तानां कुचकलशपत्रालिरचना
 समासक्तः स्निग्धैः सह शिशुविहारं विरचयन् ॥ १० ॥


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविंदभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ
भगवन्मानसपूजा सपूर्णा ॥