पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६०
भगवन्मानसपूजा।


तटिद्वर्णे वस्त्रे भज विजयकान्ताधिहरण
 प्रलम्बारिभ्रातर्मृदुलमुपवीतं कुरु गले ।
ललाटे पाटीरं मृगमदयुतं धारय हरे
 गृहाणेदं माल्यं शतदलतुलस्यादिरचितम् ॥ ४ ॥

दशाङ्गं धूपं सद्वरदचरणाग्रेऽर्पितमिदं
 मुखं दीपेनेन्दुप्रभविरजसं देव कलये ।
इमौ पाणी वाणीपतिनुतसकर्पूररजसा
 विशोध्याग्रे दत्तं सलिलमिदमाचाम नृहरे ॥ ५ ॥

सदा तृप्तान्नं षड्रसवदखिलव्यजनयुतं
 सुवर्णामत्ने गोघृतचषकयुक्ते स्थितमिदम् ।
यशोदासूनो तत्परमदययाशान सखिभिः
 प्रसादं वाञ्छद्भिः सह तदनु नीरं पिब विभो ॥ ६ ॥

सचूर्णं ताम्बूलं मुखशुचिकरं भक्षय हरे
 फलं स्वादु प्रीत्या परिमलचदास्वादय चिरम् ।
सपर्यापर्याप्त्यै कनकमणिजातं स्थितमिदं
 प्रदीपैरारार्तिं जलधितनयाश्लिष्टरचये ॥ ७ ॥