पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५८
गोविन्दाष्टकम् ।


वृन्दावनभुवि वृन्दारकगणवृन्दाराधितवन्द्याया
 कुन्दाभामलमन्दस्मेरसुधानन्दं सुहृदानन्दम् ।
वन्द्याशेषमहामुनिमानसवन्द्यानन्दपदद्वन्द्वं
 वन्द्याशेषगुणाब्धिं प्रणमत गोविन्दं परमानन्दम् ॥ ८ ॥

गोविन्दाष्टकमेतदधीत गोविन्दार्पितचेता यो
 गोविन्दाच्युतमाधवविष्णो गोकुलनायककृष्णेति ।
गोविन्दाङ्घ्रिसरोजध्यानसुधाजलधौतसमस्ताघः
 गोविन्दं परमानन्दामृतमन्तःस्थं स समभ्येति ॥ १ ॥


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ
गाविन्दाष्टकं सम्पूर्णम् ॥