पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५१
हरिस्तुतिः ।

श्रद्धाभक्तिध्यानशमाद्यैर्यतमानै-
 र्ज्ञातुं शक्यो देव इहैवाशु य ईश ।
दुर्विज्ञेयो जन्मशतैश्चापि विना तै-
 स्तं संसारध्वान्तविनाशं हरिमीडे ॥ २४ ॥

यस्यातर्क्यं स्वात्मविभूतेः परमार्थं
 सर्वं खल्वित्यत्र निरुक्तं श्रुतिविद्धिः ।
तज्जातित्वादब्धितरङ्गाभमभिन्नं
 तं संसाारध्वान्तविनाशं हरिमीडे ॥ २५ ॥

दृष्ट्वा गीतास्वक्षरतत्त्वं विधिनाजं
 भक्त्या गुर्व्या लभ्य हृदिस्थं हशिमात्रम् ।
ध्यात्वा तस्मिन्नस्म्यहमित्यत्र विदुर्यं
 तं संसाारध्वान्तविनाशं हरिमीडे ॥ २६ ॥

क्षेत्रज्ञत्वं प्राप्य विभुः पञ्चमुखैर्यो
 भुङ्क्तेऽजस्रं भोग्यपदार्थान्प्रकृतिस्थः ।
क्षेत्रे क्षेत्रेऽप्स्विन्दुवदेको बहुधास्ते
 तं संसाारध्वान्तविनाशं हरिमोडे ॥ २७ ॥