पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८
हरिस्तुतिः ।

सर्वत्रास्तं सर्वशरीरी न च सर्वः
 सर्वं वेत्त्येवेह न यं वेत्ति च सर्वः ।
सर्वत्रान्तर्यामितयेत्थं यमयन्य-
 स्तं संसारध्वान्तविनाशं हरिमीडे ॥ १२ ॥

सर्वं दृष्ट्वा स्वात्मनि युक्त्या जगदेत-
 दृष्ट्वात्मानं चैवमजं सर्वजनेषु ।
सर्वात्मैकोऽस्मीति विदुर्यं जनहृत्स्थं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ १३ ॥

सर्वत्रैकः पश्यति जिघ्रत्यथ भुङ्क्ते
 स्प्रष्टा श्रोता बुध्यति चेत्याहुरिमं यम् ।
साक्षी चास्ते कर्तृषु पश्यन्निति चान्ये
 तं संसारध्वान्तविनाशं हरिमीडे ॥ १४ ॥

पश्यञ्शृण्वन्नत्र विजानन्रसयन्सं-
 जिघ्रन्बिभ्रद्देहमिमं जीवतयेत्थम् ।
इत्यात्मानं यं विदुरीशं विषयज्ञं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ १५ ॥