पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४
कृष्णाष्टकम् ।


यदा धर्मग्लानिर्भवति जगतां क्षोभकरणी
 तदा लोकस्वामी प्रकटितवपुः सेतुधृदजः ।
सतां धाता स्वच्छो निगमगणगीतो व्रजपतिः
 शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ ८ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

कृष्णाष्टकं सम्पूर्णम् ॥