पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९
श्रीविष्णुभुजगप्रयातस्तोत्रम् ।


समानोदितानेकसूर्येन्दुकोटि-
 प्रभापूरतुल्यद्युतिं दुर्निरीक्षम् ।
न शीतं न चोष्णं सुवर्णावदात-
 प्रसन्नं सदानन्दसंवित्स्वरूपम् ॥ ४ ॥

सुनासापुटं सुन्दरभ्रूललाटं
 किरीटोचिताकुञ्चितस्निग्धकेशम् ।
स्फुरत्पुण्डरीकाभिरामायताक्षं
 समुत्फुल्लरत्नप्रसूनावतंसम् ॥ ५ ॥

लसत्कुण्डलामृष्टगण्डस्थलान्तं
 जपारागचोराधरं चारुहासम् ।
अलिव्याकुलामोदिमन्दारमालं
 महोरस्फुरत्कौस्तुभोदारहारम् ॥ ६ ॥

सुरत्नाङ्गदैरन्वितं बाहुदण्डै-
 श्चतुर्भिश्चलत्कङ्कणालंकृताग्रैः ।
उदारोदरालंकृतं पीतवस्त्रं
 पदद्वन्द्वनिर्धूतपद्माभिरामम् ॥ ७ ॥