पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । इति मन्त्रेषु बहुधा विद्याया महिमोच्यते । मौक्षैकहेतुविद्या तु श्रीविद्या नात्र संशयः ।। न शिल्पादिज्ञानयुक्त विद्वच्छब्द प्रयुज्यते । मोक्षैकहेतुविद्या सा श्रीविद्यैव न संशयः ॥ तस्माद्विद्याविदेवात्र विद्यान्विद्वानितीर्यते । स्वयं विद्याविदे दद्यात्ख्यापयत्तद्गुणान्सुधीः । स्वयंविद्यारहस्यज्ञो विद्यामाहात्म्यवेद्यपि । विद्याविद नार्चयेच्चेत्को वा त पूजयेज्जनः ॥२८॥ प्रसङ्गादिदमुक्त त प्रकृत शृणु कुम्भज | य कीर्तयत्सकृद्भक्त्या दिव्यनामशतत्रयम् । तस्य पुण्यमहं वक्ष्ये शृणु स्व कुम्भसंभव । रहस्यनामसाहस्रपाठे यत्फलमीरितम् ॥ ३० ॥ तत्फलं कोटिगुणितमेकनामजपाद्भवेत् । कामेश्वरीकामेशाभ्यां कृत नामशतत्रयम् ।।