पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । न तेषां सिद्धिदा विद्या कल्पकोटिशतैरपि । चतुर्भिः शिवचक्रैश्च शक्तिचक्रैश्च पञ्चभिः । नवचकैश्च संसिद्ध श्रीचक्र शिवयार्वपु । त्रिकोणमष्टकोणं च दशकोणद्वयं तथा ॥१२॥ चतुर्दशार चैतानि शक्तिचक्राणि पश्च च । बिन्दुश्चाष्टदल पश्म पद्म षोडशपत्रकम्॥ १३॥ चतुरश्र च चत्वारि शिवचक्राण्यनुक्रमात् । त्रिकोणे बैन्दव श्लिष्ट अष्टारेष्टदलाम्बुजम् ।। दशारयो षोडशार भूगृह भुवनाश्रके । शैवानामपि शाक्ताना चक्राणा च परस्परम् ॥ अविनाभावसबन्ध यो जानाति स चक्रवित् । त्रिकोणरूपिणी शक्तिबिन्दुरूपपर शिव ॥ अविनाभावसबन्ध तस्माद्बिन्दुत्रिकोणयो । एवं विभागमज्ञात्वा श्रीचक्र यः समर्चयेत् ।।