पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीमाष्यम् ।

ह्रींकारबोधिता । सिद्धे पदार्थे इन्द्रियादिसबन्धे सति स्वत एव ज्ञानोत्पत्तिदर्शनान्न ज्ञाने विधिरपेक्षित , क्रियाफलत्वाभावात् । तर्हि नित्यापरोक्षधर्मादिज्ञानवत् शुद्धब्रह्माभेद वेदैकदेशह्रींकारेणैव बोध्यते, अज्ञातज्ञापकत्वेन वेदस्य स्वत प्रामाण्याभ्युपगमात् , परचैतन्यस्य च ज्ञायमानस्य परमानन्दरूपतया पुरुषार्थरूपत्वात् । अत ह्रींकारेणैव मूलमन्त्रात्मना बोधिता ज्ञापिता । हकाररेफेकाराणां व्यस्तत्वदशायां भिन्नभिन्नार्थकानां मेलने ह्रींकारात्मना परिणामे सच्चिदानन्दस्वरूपश्रीत्रिपुरसुन्दर्या तदर्थत्वेन अद्वैतस्वरूपतया प्रतिभानात् । 'नान्योऽतोऽस्ति द्रष्टा, इदं सर्वं यदयमात्मा' 'एक एव तु भूतात्मा भूते भूते व्यवस्थित । एकधा बहुधा चैव दृश्यते जलचन्द्रवत्' इत्यादिश्रुतेः ।आत्मा वा अरे दृष्टव्य तद्विजिज्ञासस्व' 'आत्मानं पश्येत्' इत्यादिलिङ्लोट्तव्यप्रत्ययानामर्हतार्थकतया न विधित्वमिति सिद्धान्त ॥ ॐ हींकारबोधितायै नमः ।। ह्रींकारमयसौवर्णस्तम्भविद्रुमपुत्रिका । पिङ्गलपृथ्वीरेणु सुवर्णमित्युच्यते । अनुन्छिद्यमानद्रवत्वस्य नैमित्तिकत्वेऽपि तैजसान्तर प्रदीपप्रभादाववर्शनात् । पदार्थान्तरसंयोगे रजतादिवदतितेज संयोगात् भस्मभावापत्तेश्च हीरमणौ लोहले