पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् ।

प्रकाशयन्नितरपेटकेभ्य तं व्यावर्तयति, तथेदमपि बीजं स्ववाचकतयेतरवर्णेभ्य निरतिशयमहिम्ना भेदयतीति भावः ।। ॐ ह्रींकारपेटकमणये नमः ।। ह्रींकारादर्शबिम्बिता । अस्य बीजस्य इतरप्रमाणानपेक्षवेदान्तर्गततया निर्दोषत्वादादशसाम्यम् । तस्मिन् बिम्बिता प्रतिबिम्बिता, मायाप्रतिबिम्बचैतन्यस्यैव जगत्कारणतया सर्वत्र दर्पणे मुखमिव प्रतिफलतीति तात्पर्यार्थः ॥ ॐ हींकारादर्शविम्बितायै नमः ॥ ह्रींकारकोशासिलता । ह्रींकार एव कोश तस्यासिलता अतिदीर्घखड्गमित्यर्थः । सर्ववैर्यादिजन्यदुखविवर्तकत्वमसिलताया इव परदेवताया अपि । तथात्वेन बहिः प्रकटनायोग्यतामादृश्येन आच्छादकापेक्षया ह्रींकारस्य वाचकशब्दतया अर्थावारकत्वौपम्यादसिकोशतुल्यता । तथा च ह्रींकारकाशे विद्यमाना असिलतेव दुखनिवारकत्वे सति भक्ताभयकरीति भावः । सर्वेषामायुधविशेषाणाम् असिपदमुपलक्षणम् । 'महद्भयं वनमुद्यतम् ' ' भीषास्माद्वात पवते' इत्यादिश्रुतेः ॥ ॐ ह्रींकारकोशासिलतायै नमः। ह्रींकारास्थाननर्तकी । ह्रींकार एव आस्थान सभामण्डप सर्वाश्रयत्वात् । तस्य नर्तकी नटनसबन्धभूसयोगचरणवि