पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् ।

सति चिरकालावस्थायित्व मणिदीपसाहश्यम् ह्रींकारस्य । तस्य प्रकाश अनितरसाधारणमहातिशयवत्त्वेन अनर्घत्वमावेदयति । तदुपासकस्य निरवधिकमहत्त्वापादकह्रींकारवाच्यतया तत्प्रकाशकेत्यर्थः । तथा च निरन्तरतमोऽपाकरणेन स्वेष्टपदार्थापादनेन च सुखयतीति फलितोऽर्थः ॥ ॐ ह्रींकारमणिदीपार्चिषे नमः ॥ ह्रींकारतरुशारिका । तारयति फलार्थिन स्वारूढान् पतनादे रक्षतीति तरु , तस्य शारिका पिङ्गतुण्डनेत्रचरणा शारिका अभ्यासातिशयेन मनुष्यभाषायामपि भाषते । भूतभविष्यद्वर्तमानलोकयात्रापरिज्ञात्री सती शुभाशुभफलप्राप्तिं च स्वभाषया वदति । अस्य बीजस्य वाच्यार्थतया सत्सबन्धिनी सती वेदवाचा सर्वं प्रकाशयतीत्यर्थः ॥ ॐ ह्रींकारतरुशारिकायै नमः ॥ ह्रींकारपेटकमणिर्ह्रींकारादर्शविम्बिता। ह्रींकारकोशामिलता ह्रींकारास्थाननर्तकी। ह्रींकारपेटकमणि ।गूहनसाधनतया ह्रींकार पेटफेन दृष्टान्तीक्रियते । तस्य मणि वैडू मित्यर्थ । यथा हीरादिमणि पेटकादौ गापितोऽपि स्वकान्त्या बाह्याभ्यन्तर तस्य