पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम्। ह्रींकारदुग्धाब्धिसुधा ह्रींकारकमलेन्दिरा । ह्रींकारमणिदीपार्चिह्रींकारतरुशारिका ।। हकारदुग्धाब्धिसुधा । दोहानिष्पन्नं दुग्धम् । स्तनगतस्य पयसः स्वीयतापादनहस्तक्रियाविशेषो दोहः । उपलक्षणं चोषणादीनाम् , तथा च प्रदीपालकार सिद्ध , अनन्तोदकप्रसारितनिम्नभूप्रदेश अब्धिरुच्यते । आप धीयते अस्मिन्निति तथा । तस्मिन् सजीवकत्व धर्म । डिम्भक सजीवने स्तन्यादी दर्शनात् । ह्रींकारस्यापि हकारयुक्ततया श्वेतवर्णत्वादमृतहेतोश्च तत्सादृश्यम् । तस्य सुधेव सुधा तदभिव्यक्तत्वाविशेषात्तत्सेवकाना नित्यत्वे सति बहुविधमहिमशालितया दर्शनादिति भावः ॥ ॐ ह्रींकारदुग्धाब्धिसुधायै नमः॥ हींकारकमलेन्दिरा । ह्रींकारबीजस्य विचित्रवर्णतया परमप्रीतिविषयतया च कमलोपमा । तस्य वाच्यार्थतया तदुपरितनत्वेन सर्वपुरुषार्थप्रदातृत्वाच्च कमलशब्देनाभिधीयते । तस्या पद्मालयत्वात् ह्रींकारकमलस्य इन्दिरा सदधीनब्रह्मविद्यत्यर्थ ॥ ॐ ह्रींकारकमलेन्दिरायै नमः ।। ह्रींकारमणिदीपार्चि। आधिदैविकाद्युपद्रवानभिभूतत्वे