पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् ।

च्छावलम्बितमूर्ति घृतकाठिन्यन्यायेन जीवत्वाभावेन कर्माधीनत्वाभावात् । तथा च सति अध्यस्तमायाशक्ते भेदकत्वस्वाभाव्येन ‘पतिश्च पत्नी चाभवताम्' इति श्रुत्या च दंपतिमूर्तिमत्ती बभूवेत्यभिप्रायः ॥ ॐ लब्धदेहायै नमः ॥ लब्धैश्वर्यसमुन्नति । ऐश्वर्याणां समुन्नति आधिक्यं पर्यवसानमित्यर्थः , लब्धा ऐश्वर्यसमुन्नतिः यया सा तथा, 'समीश्वराणां परमं महेश्वरम्' इति श्रुतेः नान्तोऽसि मम दिव्यानां विभूतीनां परंतप' इति स्मृतेश्च । 'सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य' इति श्रुतौ निरुपाधिकमहदैश्वर्यसंपत्ते तदुपासकानामगस्त्यादिमहर्षीणां दर्शनात् तदीयमहदैश्वर्यस्य निरवधिकत्वमिति किमु वक्तव्यमिति ज्ञायते इत्यभिप्रायः || ॐ लब्धैश्वर्यसमुन्नत्यै नमः ॥ लब्धवृद्धि । वृद्धिर्नाम व्याप्तिपरिपूर्णतेत्यथ , अवयवोपचयात्मका न, तस्याः कर्मजन्यत्वेन विनाशहेतुत्वात् , 'स वा एष महानज आत्मा न वर्धते कर्मणा' इति श्रुतिवचनात् , 'निष्क्रियं निष्कलम्' इति अवयवमात्रनिषेधाच्च, तथा च लब्धा वृद्धि सर्वव्यापकता स्वस्वरूपैव सती उपाधिभिर्जन्यैस्तदाश्रयभूतैः अभिव्यज्यत। न