पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । सत्यर्थः । अथवा, धीशब्देन सर्वज्ञत्वादिकमुच्यते , तत् लब्धं ययेति वा, 'यः सर्वज्ञः सर्ववित्' इति श्रुतेः ॥ ॐ लब्धधिये नमः ॥ लब्धवाञ्छिता । वाञ्छाया विषयीभूतं वाञ्छितम् इष्टफलमित्यर्थः । लब्ध पूर्वमेव प्राप्त तद्ययेति तथा । आप्तकामेति यावन् । ॐ लब्धवाञ्छितायै नमः ।। लब्धपापमनोदूरा । पापप्रधानानि च तानि मनांसि च पापमनांसि लब्धानि पापमनांसि यैस्ते सदा पापचिन्तका इत्यर्थः । तषा दूरा अवेद्येत्यर्थः , 'अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् इति श्रुतेः । 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति' इति श्रुत्या विहितानां तत्तद्वर्णाश्रमधर्माणामीश्वरार्पणबुद्धया क्रियमाणानामात्मज्ञानसाधनतया श्रूयमाणत्वात् तदन्येषा दुखप्राप्तिसाधनत्वेन पापवासनाप्रधानत्वेन दुरधिगमेत्यर्थः ॥ ॐ लब्धपापमनोदूरायै नमः ॥ लब्धाहंकारदुर्गमा । अहंकारोऽभिमान उपलक्षण तत्कार्याणामासुरसपत्तिविशेषाणाम् । लब्धः अहकारो राजसतामसात्मकः यैस्ते दुःखेनाप्यधिकप्रयत्नेन क्रियमाणसाधनकलापेन अधिगन्तु ज्ञातुमशक्याः । सत्त्वगुणाभावे देहे