पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६८ ललितात्रिशतीभाष्यम् । कामेश्वरप्रणयिनी। कामेश्वरस्य स्वस्वरूपे परमानन्दघने या प्रीतिः तद्विषयभूतेत्यर्थः ॥ ॐ कामेश्वरप्रणयिन्यै नमः ॥ कामेश्वरविलासिनी । कामेश्वरस्य विलासकार्यात्मना विवर्तोऽस्या असीति तथा ॥ ॐ कामेश्वरविलासिन्यै नमः॥ कामेश्वरतपःसिद्धि । कामेश्वरस्य तपः जगदालोचनात्मकम् , सिध्यत्यनयेति सिद्धि , तपसः साधनभूतेत्यर्थः । स्त्रीपुरुषात्मना कल्पितभेदवशात् जगत्सर्जनसाधनभूतत्यर्थः ।। ॐ कामेश्वरतपःसिद्ध्यै नमः ॥ कामेश्वरमनःप्रिया । मनसः प्रिया तथा, निरवधिकप्रेमास्पदेत्यर्थः ॥ ॐ कामेश्वरमनःप्रियायै नमः ।। कामेश्वरप्राणनाथा कामेश्वरविमोहिनी। कामेश्वरब्रह्मविद्या कामेश्वरगृहेश्वरी ॥ कामेश्वरप्राणनाथा । कामेश्वरस्य प्राणः हिरण्यगर्भः तं नाथयति पालयतीति तथा। कामेश्वरः प्राणनाथो वल्लभो यस्याः सेति वा तथा ।। ॐ कामेश्वरमाणनाथायै नमः || कामेश्वरविमोहिनी । विमोहयति स्वयं भिन्नविग्रहवती