पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिहतीभाष्यम् । श्रितौ' इति श्रुत्या 'जीव प्राणधारणे' इति धातुपाठाच्च प्राणनाडीशब्दस्य लक्षणया परमात्मैवोच्यते । कामेश्वरस्यैव प्रारब्धकर्मजन्यशरीरमात्राभावेऽपि घृतकाठिन्यन्यायेन मूर्तिमत्तया तदन्तर्यामिसभावनया एतन्नाम । कामेश्वरस्य प्राणनाडी तदधिष्ठानचैतन्यमिति फलितोऽर्थः ।। ॐ कामेश्वरप्राणनाड्यै नमः ॥ कामशोत्संगवासिनी । कामेशस्य उत्सगे वामांके वसतीति तथा । 'अनेकमन्मथाकारकामेशोत्संगवासिनी' इति ललितातापनीये ।। ॐ कामेशोत्संगवासिन्यै नमः ॥ कामेश्वरालिङ्गिताङ्गी । तेन आलिङ्गितम् अङ्गीकृतम् अङ्गं यस्याः सा तथा ।। ॐ कामेश्वरालिङ्गितायै नमः ॥ कामेश्वरसुखप्रदा । कामेश्वराय सुखं प्रददातीति वा । कामेश्वरस्य यत्सुखं ब्रह्मस्वरूपसच्चिदानन्दसाक्षात्कारात्मकम् 'दवो भूत्वा देवानप्येति' इति श्रुत्युक्तन्यायात् स्वकीयभक्तानां कामेश्वराभेदरूपं सच्चिदानन्दघनात्मकं मोक्षं ददातीत्यर्थः ॥ ॐ कामेश्वरसुखप्रदायै नमः ॥ कामेश्वरप्रणयिनी कामेश्वरविलासिनी । कामेश्वरतपःसिद्धि कामेश्वरमनःप्रिया ।।