पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् ।

तानि सनद्धानि वर्तन्त । तस्या मूल पृथ्वीदेवता बिस्रतन्तुतनीयसी कुण्डलिन्यधोमुखावरणशक्तिर्निद्राति । तस्या दक्षिणभागे इलानामनाडी भ्रूमध्यपर्यन्त प्रसृता। वामे पिङ्गला तथा । तथा च जाग्रदवस्थाया नेत्रयो दपत्यात्मना श्रुतिप्रतिपादित , स्वप्ने मनउपाधिक,सुषुप्तावज्ञानोपाधिक , जाग्रति स्थूलशरीराभिमानी विश्व इत्युच्यत,सूक्ष्माभिमानी तैजस , सुषुप्तौ कारणाभिमानी प्राज्ञ । सुषुप्तौ कारणात्मना स्थितानि स्थूलसूक्ष्मशरीरजन्यभोगमाधनप्रारब्धकर्मवशेन पुरीतद्द्वारा नाडीमार्गेण तत्तद्गोलकानि प्रविशन्ति इन्द्रियाणि । तदुपरमप्रारब्धोद्बोधे आन्दोलिकाया विद्यमानो राजा गृहान्तरे सोपानमागद्वारा प्रासादे विहृत्य तदवच्छिन्नान्तः पुरपर्यङ्के शयान इव नाडीद्वारा पुरीतत्प्रविश्य तदवच्छिन्नहृदयोपाधिक परमात्मान यदा प्रविशति तदा सुप्त इत्युच्यते । लिङ्गशरीर कारणात्मना लीयत । तदा प्राणादिवायवः प्रलीनवृत्तयः सन्तः आयुःस्वरूपेण शरीरं रक्षन्ति । तथा च भाविजाग्रत्स्वप्नभोगानुकूलकर्मानुबन्धप्रणधारण सुषुप्तौ सोपाधिकचैतन्यस्यैव दृश्यतेय तत्सत्तया च नाडीनां प्राणसचारयोग्यतापि । एवं च सति न प्राणेन नापानेनमत्यों जीवति कश्चन । इत्तरेण तु जीवन्ति यस्मिन्नेतावुपा-