पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । वाचक अस्या अस्तीति तथा । ॐ ककारिण्यै नमः ।। काव्यलोला । वाल्मीकिवेदव्यासादिकृतेषु काव्येषु लोला, वाच्यलक्ष्यार्थभेदेन तत्र संबद्धेत्यर्थः। अथवा, कवि भिः कृतेषु स्तुतिविशेषेषु प्रीतिमतीत्यर्थः ॥ ॐ काव्यलोकायै नमः ।। कामेश्वरमनोहरा । कामेश्वरस्य मन हरतीति तथा । ॐ कामेश्वरमनोहरायै नमः ॥ कामेश्वरप्राणनाडी कामेशोत्सङ्गवासिनी । कामेश्वरालिङ्गिताङ्गी कामेश्वरसुखप्रदा ।। कामेश्वरप्राणनाडी । कामेश्वरस्य प्राणनाडी यथा नाड्यां प्राण सचरति सा तथा, जीवनाडीत्यर्थः । 'इडया तु बहिर्याति' इति लयखण्डवचनात् । लोके विशम्यमाने पशौ हृदयपुण्डरीकाकार मासखण्डात्मकान्त सुषिराष्टदलोपेतमङ्गुष्ठपरिमाणसुषिरयुताधाभागकर्णिकामध्य दृश्यते, तस्या कर्णिका या कसरायमाना एकशत नाडीनामङ्कुरा तद्वेष्टनपुरीतन्नामकनाडीसुषिरविन्यस्तमूला भवन्ति। तत्र सुषुम्नानामकनाडी मूलाधारादारभ्य ब्रह्मरंध्रपर्यन्त गता। तस्या षट् चक्राणि मूलाधारादीनि तत्तन्मातृकावर्णसहितयोगशास्त्रोक्तदलसयु