पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । वत् कस्मिंश्चिद्विषये असामर्थ्यशङ्का स्यात् । एकस्य पदार्थस्य बहूनामिच्छाविषयत्वदर्शनात् , एकत्र कामनायामपि तत्सहभावित्वेन सर्वप्रापकत्वोक्तौ परदेवताया बहुफलप्रदातृत्वेन अत्यन्तविश्वसनीयतया अतिशयप्रतिभानाच्चेत्यर्थः। अथवा, परिच्छिन्नपरिमितभाग्यवत्प्राणिन सर्वस्य सर्वत्र इच्छायामपि, यानि सर्वाणि स्वबुद्ध्या शास्त्राविरोधेनेष्टानि एषितव्यानि वाञ्छितव्यानि, तान्येव प्रयच्छति ददाति, न तदधिकानि, लोकेच्छाया बहुप्रकारत्वेन दुष्पूरणीयत्वादिति भावः । सर्वेषां प्राणिनामिष्ट्या इज्यया पूजया विषयीकृता, यज्ञेन वा समाराधिता तस्य फलप्रदेत्यर्थः । ' अह च सर्वयज्ञानां भोक्ता च प्रभुरेव च' 'एष एव साधु कर्म कारयति यमेभ्यो लोकेभ्य उन्निनीषति' इति स्मृतिश्रुतिभ्यां परमेश्वरार्पणबुद्धया क्रियमाणस्यैव कर्मणः शुभफलत्वात् मुक्तिहेतुत्वेन, काम्यफलार्थिना जन्ममरणादिबन्धकत्वेन स्वल्पफलतथा अनादरणीयत्वादित्यर्थः । अथवा, कलाभिः अवयवैः तरतमभावैरित्यर्थः । तैः सहितानि इष्टानि फलानि मनुष्यानन्दादिब्रह्मानन्दपर्यन्तानि फलानि आनन्दस्वरूपाणि ददातीति तथा ॥ ॐ सकलेष्टदायै नमः ॥ ककारिणी । तृतीयखण्डाद्वितीयवर्णरूपककारावयव