पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । तत्र तत्र निवासयोग्या मूर्तिर्यस्या मति वा । कर्माध्यक्षतया तत्तत्फलविशेषदानेषु समा पक्षपातरहिता मूर्तिर्यस्याः सा। समा बाल्यस्थविरत्वादिभावविकारवर्जिता एकप्रकारा नित्ययौवनशालिनी मूर्तिर्यस्याः सा। 'मम सर्वेषु भूतेषु मद्भक्तिं लभते पराम्' अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सनिविष्टः ' इति स्मृतिश्रुतिभ्यामेकरूपत्वावगमादित्याशयः ।। ॐ समाकृतये नमः ॥

सर्वप्रपञ्चनिर्मात्री। संसारस्थानादितया मोक्षस्थायित्वेन च भूतभविष्यद्वर्तमानगत्या सर्वशब्दवाच्यत्वं प्रपञ्चस्य, प्रपञ्च्यते विस्तायते विवर्तत इति प्रपञ्च, 'एकं बीजं बहुधा यः करोति' इति श्रुतेः । तस्य निर्मात्री निर्माणमभिव्यक्तिः तन्निमित्ततया तत्तत्कर्तृत्वमुपचर्यते, देवदत्तः पचतीतिवत्।। ॐ सर्वप्रपञ्चनिर्मात्र्यै नमः ।।

समानाधिकवर्जिता । फुलशीलजातिगुणादिभिः तुल्य समान , तै श्रेयानधिक , तैवर्जिता । 'न तस्य प्रतिमास्ति' विश्वाधिको रुद्रो महर्षि ' इति श्रुतेः , ' सर्वाधिपत्य कुरुते महात्मा' इति एकमेवाद्वितीयम्'न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रये' इत्यादिश्रुतिस्मृतिभ्यां चेति भावः । एतद्दृष्टया समाननीय समानपूजनी