पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । ते स्वरूप यस्या सा तथोक्ता | वेदान्तशास्त्रोक्तब्रह्मस्वरूप लक्षणलक्षितेत्यर्थ ।। ॐ सच्चिदानन्दायै नमः ।। साध्या । कर्मोपासनादिभि महावाक्यश्रवणजन्यब्रह्म विधात्वेन साधनचतुष्टयसपनाधिकारिणा अपरोक्षतया साधितु प्राप्तुमहा, फलस्वरूपत्वादिसर्थ । साध्वीति वा पाठ साधो स्त्री, सत्त्वगुणसपन्नत्वात् साधु , सकल- विद्यापारगत्वे सति सदाचारसपन्न दैवीसपत्तिमानित्य थ । तदेकनिष्ठा परमपतित्रता सती स्त्रीणा पातिव्रत्यसप्रदा यप्रवर्तकेति यावत् ॥ ॐ साध्यायै नमः ॥ सद्गतिदायिनी । समीचीना पुनरावृत्तिरहिता सुखमात्र रूपा गति , गम्यते ज्ञायते प्राप्यते इति वा गति । यत् ज्ञायते तदेव गति , तदन्यस्याज्ञातत्वात् गतित्यानुपपत्ते । झाते फले इच्छया तत्साधनेषु पुरुष प्रवर्तते , न त्व जातफलसाधने-- इत्यन्वयव्यतिरेकाभ्याम् , ' ब्रह्मविदानाति परम्' ब्रह्म वेद ब्रह्मैव भवति' 'ये पूर्व देवा ऋषयश्च तद्विदु ते तन्मया अमृता वै बभूवु' इत्यादिश्रुत्या च परदेवतास्वरूपमेव मुक्तिस्वरूपतया सद्गति । काज्ञानाभिभवन स्वरूपानन्दमभिव्य जयतीति दायिनी । अभेदेऽपि गतिदानयो कर्मकर्तृप्रथाग उपपद्यते । तदा सदावार-