पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५८ ललितात्रिशतीभाष्यम् । यमुच्यत इत्यर्थ । तयोराश्रया उपादानत्वेन तदधिष्ठानभूते त्यर्थ । आरोपितस्थाधिष्ठानमत्तातिरिक्तसत्ताशून्यत्तया सत्ता स्फूर्तिप्रदत्वेन सर्वदा तदनुस्यूतेति ध्येयम ॥ ॐ सदसदा श्रयायै नम ॥ सकला सच्चिदानन्दा साध्या सद्गतिदायिनी । सनकादिमुनिध्येया सदाशिवकुटुम्बिनी ॥ सकला । आरोपितकलाभि उपासनार्थ कल्पिताभि जाबालिना सत्यकाम प्रत्युक्तषोडशकलायुक्तपुरुषोपासनप्रति पादकच्छान्दोग्यवचनरीत्या कलाशब्दितावयवै सह वर्तते इति सा तथा । चतु षष्टिचन्द्रकलाभ्या वा सहिता । अथवा, कलाशब्द सुखादिकान्तिवचन तया सहिति या ॥ ॐ सकलायै नमः ।। सच्चिदानन्दा । सञ्चासौ चिच सञ्चित् सञ्चिचासौ आन- कालत्रयाबाध्यत्व सत्त्वम्, स्वेतरप्रकाशाप्रकाश्यत्व चित्त्वम् , परमप्रेमास्पदत्वमानन्दत्वम् , ' सत्य ज्ञानमनन्तम्' 'विज्ञानमानन्दम्' सदेव सोम्येदमन आसीत् ' प्रतिष्ठा प्रशान ब्रह्म 'आनन्दो ब्रह्मेति व्यजानात् नन्द ब्रह्मणो विद्वान्न बिभेति कुतश्चन' इत्यादिश्रुतिभ्य । 6 प्रज्ञा 9 6 आ