पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । वाचकशब्द यस्या सा तथा ॥ ॐ सकाराख्यायै नम ।। समरसा । सम एक रस मधुरादिरसवगुडपिण्डादा वेकरूपेण कार्ये व्यवस्थितेत्यर्थ । अथवा, ससारदशाया सर्वज्ञत्वकिंचिज्ज्ञत्वादिविशेषणभेदेन भिन्नरसवत् भिन्नस्वभा ववत् प्रतीयमानयोरीश्वरजीवयोर्वेदान्तश्रवणादिना जन्या- खण्डाकारवृत्तिव्याप्त्या अह ब्रह्मास्मि- इत्यभेदानुभवदशा- थामेकरूपतया साक्षास्कियते इति सा तथोक्यते, 'रसो वै स' इति श्रुते , रसशब्दार्थ परब्रह्म सम अभिन्न यस्या सा तथा । तैत्तिरीयोपनिषत्प्रतिपाद्येत्यर्थ ॥ ॐ समरसायै नम ॥ सकलागमसस्तुता। आ समन्तात् गमयन्तीति आगमा सफलपदार्थगोचरसविकल्पकप्रमाजनकवेदा इत्यर्थ । सकलै रन्यूनानतिरेकेणेतिहासपुराणसहितयावदङ्गोपाझरहस्यादियो गित्व सफलशब्दार्थ । तै सस्तुता सम्यक् नात पर विधि दस्तीति निश्चयपूर्वक स्तुता गुणिनिष्टगुणाभिधानविषयतया तदुपजीवकेत्यर्थ । सर्वार्थप्रकाशकवेदाना सर्वशत्वेनैदपर्येण तदीयस्तुतिविषयतया शुद्धचैतन्यात्मकतया मोक्षकारणीभू तज्ञानस्वरूपत्वेन जिज्ञास्येति ध्वनितोऽर्थ ॥ ॐ सकला गमसस्तुतायै नम ॥